|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.203. अध्यायः 203
Mahabharata - Adi Parva - Chapter Topics
धनुरारोपणार्थमुत्थितमर्जुनंप्रति ब्राह्मणानां शुभाशंसनम्॥ 1 ॥ अर्जुनेन धनुरारोपणपूर्वकं लक्ष्यवेधः॥ 2 ॥ द्रौपद्या अर्जुनकण्ठे मालाप्रक्षेपः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-203-0x(1134)(8978)
यदा निवृत्ता राजानो धनुषः सज्यकर्मणः।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः॥ 1-203-1(8979)
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्॥ 1-203-2(8980)
केचिदासन्विमनसः केचिदासन्मुदान्विताः।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः॥ 1-203-3(8981)
यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः॥ 1-203-4(8982)
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः॥ 1-203-5(8983)
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते॥ 1-203-6(8984)
यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात्।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्॥ 1-203-7(8985)
नावहास्या भविष्यामो न च लाघवमास्थिताः।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्॥ 1-203-8(8986)
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव॥ 1-203-9(8987)
सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते॥ 1-203-10(8988)
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्॥ 1-203-11(8989)
ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः॥ 1-203-12(8990)
दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन्॥ 1-203-13(8991)
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि॥ 1-203-14(8992)
पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान्॥ 1-203-15(8993)
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः। 1-203-16(8994)
वैशम्पायन उवाच।
एवं तेषां विलपतां विप्राणां विविधा गिरः॥ 1-203-16x(1135)
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः।
`अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत्॥ 1-203-17(8995)
एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं तु किम्। 1-203-18(8996)
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः॥ 1-203-18x(1136)
ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा।
एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम॥ 1-203-19(8997)
तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः॥ 1-203-20(8998)
वैशम्पायन उवाच। 1-203-21x(1137)
ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः।'
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्॥ 1-203-21(8999)
प्रणम्य शिरसा देवमीनं वरदं प्रभुम्।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः॥ 1-203-22(9000)
यत्पार्थिवै रुक्मसुनीथवक्रै
राधेयदुर्योधनशल्यसाल्वैः।
तदा धनुर्वेदपरैर्नृसिंहैः
कृतं न सज्यं महतोऽपि यत्नात्॥ 1-203-23(9001)
तदर्जुनो वीर्यवतां सदर्प-
स्तदैन्द्रिरिन्द्रावरजप्रभावः।
सज्यं च चक्रे निमिषान्तरेण
शरांश्च जग्राह दशार्दसङ्ख्यान्॥ 1-203-24(9002)
विव्याध लक्ष्यं निपपात तच्च
छिद्रेण भूमौ सहसातिविद्धम्।
ततोऽन्तरिक्षे च बभूव नादः
समाजमध्ये च महान्निनादः॥ 1-203-25(9003)
पुष्पाणि दिव्यानि ववर्ष देवः
पार्थस्य मूर्ध्नि द्विषतां निहन्तुः॥ 1-203-26(9004)
चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः।
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः॥ 1-203-27(9005)
शताङ्गानि च तूर्याणि वादकाः समवादयन्।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः॥ 1-203-28(9006)
तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः॥ 1-203-29(9007)
तस्मिंस्तु शब्दे महति प्रवृद्धे
युधिष्ठिरो धर्मभृतां वरिष्ठः।
आवासमेवोपजगाम शीघ्रं
सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्॥ 1-203-30(9008)
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा
पार्थं च शक्रप्रतिमं निरीक्ष्य।
`स्वभ्यस्तरूपापि नवेव नित्यं
विनापि हासं हसतीव कन्या॥ 1-203-31(9009)
मदादृतेऽपि स्खलतीव भावै-
र्वाचा विना व्याहरतीव दृष्ट्या।
आदाय शुक्लं वरमाल्यदाम
जगाम कुन्तीसुतमुत्स्मयन्ती॥ 1-203-32(9010)
गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा
पार्थस्य वक्षस्यविशङ्कमाना।
क्षिप्त्वा स्रजं पार्थिववीरमध्ये
वराय वव्रे द्विजसङ्घमध्ये॥ 1-203-33(9011)
शचीव देवेन्द्रमथाग्निदेवं
स्वाहेव लक्ष्मीश्च यथा मुकुन्दम्।
उषेव सूर्यं मदनं रतीव
महेश्वरं पर्वतराजपुत्री॥' 1-203-34(9012)
स तामुपादाय विजित्य रङ्गे
द्विजातिभिस्तैरभिपूज्यमानः।
रङ्गान्निरक्रामदचिन्त्यकर्मा
पत्न्या तया चाप्यनुगम्यमानः॥ ॥ 1-203-35(9013)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि त्र्यधिकद्विशततमोऽध्यायः॥ 203 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-203-29 साहाय्यार्थं द्रौपद्यलाभात् क्षुब्धैर्नृपान्तरैर्युद्धप्रसक्तौ सत्याम्॥ त्र्यधिकद्विशततमोऽध्यायः॥ 203 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|